9.10.1
१-२८ ब्रह्मा | गौः, विराट् अध्यात्मम्, २३ मित्रावरुणौ | त्रिष्टुप्, १,७,१४,१७-१८ जगती, २१ पञ्चपदातिशक्वरी, २४ चतुष्पदा पुरस्कृतिर्भुरिगतिजगती, २, २६-२७ भुरिक् | यद् गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत | यद् वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत् तद् वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ||