9.1.1
१-२४ अथर्वा | मधु, अश्विनौ | त्रिष्टुप्, २ त्रिष्टुब्गर्भा पङ्क्तिः, ३ परानुष्टुप्, ६ यवमध्या अतिशक्वरीगर्भा महाबृहती, ७ यवमध्या अतिजागतर्भा महाबृहती, ८ बृहतीगर्भा संस्तारपङ्क्तिः, ९ पराबृहती प्रस्तारपङ्क्तिः, १० परोष्णिक्पङ्क्तिः, ११-१३, १५-१६, १८-१९ अनुष्टुप्, १४ पुर उष्णिक्, १७ उपरिष्टाद्विराड् बृहती, २० भुरिग्विष्टारपङ्क्तिः, २१ एकावसाना द्विपदार्च्यनुष्टुप्, २२ त्रिपदा ब्राह्मी पुर उष्णिक्, २३ द्विपदा आर्ची पङ्क्तिः, २४ त्र्यवसाना षट् पदाष्टिः | दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात् समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे | तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ||