8.9.1
१-२६ अथर्वा | कश्यपः, सर्वे ऋषयः, छन्दांसी च, विराट् | त्रिष्टुप्, २ पङ्क्तिः, ३ आस्तारपङ्क्तिः, ४-५, २३, २५-२६ अनुष्टुप्, ८, ११-१२, २२ जगती, ९ भुरिक्, १४ चतुष्पदातिजगती | कुत॒स्तौ जा॒तौ क॑त॒मः सो अर्धः॒ कस्मा॑ल्लो॒कात् क॑त॒मस्याः॑ पृथि॒व्याः | व॒त्सौ वि॒राजः॑ सलि॒लादुदै॑तां॒ तौ त्वा॑ पृछामि कत॒रेण॑ दु॒ग्धा ||