Atharvaveda 7.90

शत्रुबलनाशनम्।

7.90.1

१-३ अङ्गिराः | मन्त्रोक्ताः | १ गायत्री, २ विराट् पुरस्ताद् बृहती, अपि॑ वृश्च पुराण॒वद् व्र॒तते॑रिव गुष्पि॒तम् | ओजो॑ दा॒स्यस्य॑ दम्भय ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

7.90.1

१-३ अङ्गिराः | मन्त्रोक्ताः | १ गायत्री, २ विराट् पुरस्ताद् बृहती, अपि॑ वृश्च पुराण॒वद् व्र॒तते॑रिव गुष्पि॒तम् | ओजो॑ दा॒स्यस्य॑ दम्भय ||

7.90.2

व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जामहै | म्ला॒पया॑मि भ्र॒जः शि॒भ्रं वरु॑णस्य व्र॒तेन॑ ते ||

7.90.3

यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः | अ॒व॒स्थस्य॑ क्न॒दीव॑तः शाङ्-कु॒रस्य॑ नितो॒दिनः॑ | यदात॑त॒मव॒ तत् त॑नु॒ यदुत्त॑तं॒ नि तत् त॑नु ||