7.76.1
१-६ अथर्वा | १,२ अपचिद्भैषज्यं, ३-६ जायान्यः, इन्द्रः | अनुष्टुप्, आ सु॒स्रसः॑ सु॒स्रसो॒ अस॑तीभ्यो॒ अस॑त्तराः | से हो॑रर॒सत॑रा लव॒णाद् विक्ले॑दीयसीः ||
गण्डमालाचिकित्सा।
7.76.1
१-६ अथर्वा | १,२ अपचिद्भैषज्यं, ३-६ जायान्यः, इन्द्रः | अनुष्टुप्, आ सु॒स्रसः॑ सु॒स्रसो॒ अस॑तीभ्यो॒ अस॑त्तराः | से हो॑रर॒सत॑रा लव॒णाद् विक्ले॑दीयसीः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
7.76.1
१-६ अथर्वा | १,२ अपचिद्भैषज्यं, ३-६ जायान्यः, इन्द्रः | अनुष्टुप्, आ सु॒स्रसः॑ सु॒स्रसो॒ अस॑तीभ्यो॒ अस॑त्तराः | से हो॑रर॒सत॑रा लव॒णाद् विक्ले॑दीयसीः ||
7.76.2
या ग्रैव्या॑ अप॒चितोऽथो॒ या उ॑पप॒क्ष्याः | वि॒जाम्नि॒ या अ॑प॒चितः॑ स्वयं॒स्रसः॑ ||
7.76.3
यः कीक॑साः प्रशृ॒णाति॑ तली॒द्यऽमव॒तिष्ठ॑ति | निर्हा॒स्तं सर्वं॑ जा॒यान्यं॒ यः कश्च॑ क॒कुदि॑ श्रि॒तः ||
7.76.4
प॒क्षी जा॒यान्यः॑ पतति॒ स आ वि॑शति॒ पूरु॑षम् | तदक्षि॑तस्य भेष॒जमु॒भयोः॒ सुक्ष॑तस्य च ||
7.76.5
वि॒द्म वै ते॑ जायान्य॒ जानं॒ यतो॑ जायान्य॒ जाय॑से | क॒थं ह॒ तत्र॒ त्वं ह॑नो॒ यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे ||
7.76.6
धृ॒षत् पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम् | माध्य॑न्दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒ष्ठानो॑ र॒यिम॒स्मासु॑ धेहि ||