Atharvaveda 7.60

रम्यं गृहम्।

7.60.1

१-७ ब्रह्मा | गृहाः, वास्तोष्पतिः | अनुष्टुप्, १ परानुष्टुप् त्रिष्टुप् | ऊर्जं॒ बिभ्र॑द् वसु॒वनिः॑ सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण | गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्वं॒ मा बि॑भीत॒ मत् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

7.60.1

१-७ ब्रह्मा | गृहाः, वास्तोष्पतिः | अनुष्टुप्, १ परानुष्टुप् त्रिष्टुप् | ऊर्जं॒ बिभ्र॑द् वसु॒वनिः॑ सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण | गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्वं॒ मा बि॑भीत॒ मत् ||

7.60.2

इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः | पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ||

7.60.3

येषा॑म॒ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः | गृ॒हानुप॑ ह्वयामहे॒ ते नो॑ जानन्त्वाय॒तः ||

7.60.4

उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः | अ॒क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद् बि॑भीतन ||

7.60.5

उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑ | अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः ||

7.60.6

सू॒नृता॑वन्तः सु॒भगा॒ इरा॑वन्तो हसामु॒दाः | अ॒तृ॒ष्या अ॑क्षु॒ध्या स्त॒ गृहा॒ मास्मद् बि॑भीतन ||

7.60.7

इ॒हैव स्त॒ मानु॑ गात॒ विश्वा॑ रू॒पाणि॑ पुष्यत | ऐष्या॑मि भ॒द्रेणा॑ स॒ह भूयां॑सो भवता॒ मया॑ ||