Atharvaveda 7.56

विषभैषज्यम्।

7.56.1

१-८ अथर्वा | वृश्चिकादयः, २ वनस्पतिः, ४ ब्रह्मणस्पतिः | अनुष्टुप्, ४ विराट्-प्रस्तारपङ्क्तिः | तिर॑श्चिराजेरसि॒तात् पृदा॑कोः॒ परि॒ संभृ॑तम् | तत् क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

7.56.1

१-८ अथर्वा | वृश्चिकादयः, २ वनस्पतिः, ४ ब्रह्मणस्पतिः | अनुष्टुप्, ४ विराट्-प्रस्तारपङ्क्तिः | तिर॑श्चिराजेरसि॒तात् पृदा॑कोः॒ परि॒ संभृ॑तम् | तत् क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ||

7.56.2

इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः | सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ||

7.56.3

यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि | अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ||

7.56.4

अ॒यं यो व॒क्रो विप॑रु॒र्व्यऽङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑ | तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ||

7.56.5

अ॒र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः | वि॒षं ह्य॑१स्यादि॒ष्यथो॑ एनमजीजभम् ||

7.56.6

न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः | अथ॒ किं पा॒पया॑मु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम् ||

7.56.7

अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः | सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम् ||

7.56.8

य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येऽन च | आ॒स्ये॒३ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत् ||