7.38.1
१-५ अथर्वा | वनस्पतिः | अनुष्टुप्, ३ चतुष्पदा उष्णिक् | इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम् | प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम् ||
केवलः पतिः।
7.38.1
१-५ अथर्वा | वनस्पतिः | अनुष्टुप्, ३ चतुष्पदा उष्णिक् | इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम् | प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
7.38.1
१-५ अथर्वा | वनस्पतिः | अनुष्टुप्, ३ चतुष्पदा उष्णिक् | इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम् | प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम् ||
7.38.2
येना॑ निच॒क्र आ॑सु॒रीन्द्रं॑ दे॒वेभ्य॒स्परि॑ | तेना॒ नि कु॑र्वे॒ त्वाम॒हं यथा॒ तेऽसा॑नि॒ सुप्रि॑या ||
7.38.3
प्र॒तीची॒ सोम॑मसि प्र॒तीच्यु॒त सूर्य॑म् | प्र॒तीची॒ विश्वा॑न् दे॒वान् तां त्वा॒च्छाव॑दामसि ||
7.38.4
अ॒हं व॑दामि॒ नेत् त्वं स॒भाया॒मह॒ त्वं वद॑ | ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ||
7.38.5
यदि॒ वासि॑ तिरोज॒नं यदि॑ वा न॒द्यऽस्ति॒रः | इ॒यं ह॒ मह्यं॒ त्वामोष॑धिर्ब॒द्ध्वेव॒ न्यान॑यत् ||