7.26.1
१-८ मेधातिथिः | विष्णुः | १,८ त्रिष्टुप्, २ त्रिपदा विराड्-गायत्री, ३ त्र्यवसाना षट्-पदा विराट् शक्वरी, ४-७ गायत्री | विष्णो॒र्नु कं॒ प्रा वो॑चं वी॒र्याऽणि॒ यः पार्थि॑वानि विम॒मे रजां॑सि | यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ||