7.115.1
१-४ अथर्वाङ्गिराः | सविता, जातवेदाः | अनुष्टुप्, २-३ त्रिष्टुप् | प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुतः॑ पत | अ॒य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ||
पापलक्षणनाशनम्।
7.115.1
१-४ अथर्वाङ्गिराः | सविता, जातवेदाः | अनुष्टुप्, २-३ त्रिष्टुप् | प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुतः॑ पत | अ॒य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
7.115.1
१-४ अथर्वाङ्गिराः | सविता, जातवेदाः | अनुष्टुप्, २-३ त्रिष्टुप् | प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुतः॑ पत | अ॒य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ||
7.115.2
या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम् | अ॒न्यत्रा॒स्मत् स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ||
7.115.3
एक॑शतं ल॒क्ष्म्यो॒३मर्त्य॑स्य सा॒कं त॒न्वाऽज॒नुषोऽधि॑ जा॒ताः | तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि यच्छ ||
7.115.4
ए॒ता ए॑ना॒ व्याक॑रं खि॒ले गा विष्ठि॑ता इव | रम॑न्तां॒ पुण्या॑ ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम् ||