6.99.1
१-३ अथर्वा | इन्द्रः, सोमः, सविता च | अनुष्टुप्, ३ भुरिग्बृहती (सौम्या सावित्री) | अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे | ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ||
संग्रामजयः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.99.1
१-३ अथर्वा | इन्द्रः, सोमः, सविता च | अनुष्टुप्, ३ भुरिग्बृहती (सौम्या सावित्री) | अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे | ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ||
6.99.2
यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन् न उ॒दीर॑ते | इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ||
6.99.3
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः | देव॑ सवितः॒ सोम॑ राजन्त्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ||