Atharvaveda 6.89

प्रीतिसंजननम्।

6.89.1

१-३ अथर्वा | (रुद्रः,) १ सोमः, २ वातः, ३ मित्रावरुणौ | अनुष्टुप् | इ॒दं यत् प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म् | ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.89.1

१-३ अथर्वा | (रुद्रः,) १ सोमः, २ वातः, ३ मित्रावरुणौ | अनुष्टुप् | इ॒दं यत् प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म् | ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ||

6.89.2

शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑ | वातं॑ धू॒म इ॑व स॒ध्र्य॑१ङ्मामे॒वान्वे॑तु ते॒ मनः॑ ||

6.89.3

मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती | मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ||