6.8.1
१-३ जमदग्निः | कामात्मा, २ सुपर्णः, ३ द्यावापृथिवी, सूर्यः | पथ्यापङ्क्तिः | यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे | ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ||
कामात्मा

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.8.1
१-३ जमदग्निः | कामात्मा, २ सुपर्णः, ३ द्यावापृथिवी, सूर्यः | पथ्यापङ्क्तिः | यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे | ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ||
6.8.2
यथा॑ सुप॒र्णः प्र॒पत॑न् प॒क्षौ नि॒हन्ति॒ भूम्या॑म् | ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ||
6.8.3
यथे॒मे द्यावा॑पृथि॒वी स॒द्यः प॒र्येति॒ सूर्यः॑ | ए॒वा पर्ये॑मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ||