6.76.1
१-४ कबन्धः | सान्तपनाग्निः | अनुष्टुप्, ३ ककुम्मती | य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से | सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ||
आयुष्यम्।
6.76.1
१-४ कबन्धः | सान्तपनाग्निः | अनुष्टुप्, ३ ककुम्मती | य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से | सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.76.1
१-४ कबन्धः | सान्तपनाग्निः | अनुष्टुप्, ३ ककुम्मती | य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से | सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ||
6.76.2
अ॒ग्नेः सा॑न्तप॒नस्या॒हमायु॑षे प॒दमा र॑भे | अ॒द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ||
6.76.3
यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम् | नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ||
6.76.4
नैनं घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गच्छति | अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान् नाम॑ गृ॒ह्णात्यायु॑षे ||