Atharvaveda 6.58

यशः प्राप्तिः।

6.58.1

१-३ अथर्वा (यशस्कामः) | बृहस्पतिः, १-२ इन्द्रः, द्यावापृथिवि, सविता, ३ अग्निः, इन्द्रः, सोमः | १ जगती, २ प्रस्तारपङ्क्तिः, ३ अनुष्टुप् | य॒शसं॒ मेन्द्रो॑ म॒घवान् कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे | य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.58.1

१-३ अथर्वा (यशस्कामः) | बृहस्पतिः, १-२ इन्द्रः, द्यावापृथिवि, सविता, ३ अग्निः, इन्द्रः, सोमः | १ जगती, २ प्रस्तारपङ्क्तिः, ३ अनुष्टुप् | य॒शसं॒ मेन्द्रो॑ म॒घवान् कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे | य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ||

6.58.2

यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न् यथाप॒ ओष॑धीषु॒ यश॑स्वतीः | ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ||

6.58.3

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत | य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ||