6.56.2
१-३ शन्तातिः | १ विश्वे देवाः, २-३ रुद्रः | १ उष्णिग्गर्भा पथ्यापङ्क्तिः, २ अनुष्टुप्, ३ निचृत् | मा नो॑ देवा॒ अहि॑र्वधी॒त् सतो॑कान्त्स॒हपु॑रुषान् | सम्य॑तं॒ न वि ष्प॑रद् व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑ | | १ | | नमो॑ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये | स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ||