Atharvaveda 6.46

दुःष्वप्ननाशनम्।

6.46.1

१-३ अङ्गिराः प्रचेता, यमश्च | दुःष्वप्ननाशनम् | १ विष्टारपङ्क्तिः, २ त्र्यवसाना शक्वरीगर्भा पञ्चपदा जगती, ३ अनुष्टुप् | यो न जी॒वोऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भोऽसि स्वप्न | व॒रु॒णा॒नी ते॑ मा॒ता य॒मः पि॒तार॑रु॒र्नामा॑सि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.46.1

१-३ अङ्गिराः प्रचेता, यमश्च | दुःष्वप्ननाशनम् | १ विष्टारपङ्क्तिः, २ त्र्यवसाना शक्वरीगर्भा पञ्चपदा जगती, ३ अनुष्टुप् | यो न जी॒वोऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भोऽसि स्वप्न | व॒रु॒णा॒नी ते॑ मा॒ता य॒मः पि॒तार॑रु॒र्नामा॑सि ||

6.46.2

वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि य॒मस्य॒ कर॑णः | अन्त॑कोऽसि मृ॒त्युर॑सि | तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ||

6.46.3

यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति | ए॒वा दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ||