Atharvaveda 6.4

Sukta 4

6.4.1

१-३ अथर्वा | १ त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः, २ अंशः, भगः, वरुणः, मित्रः, अर्यमा, अदितिः, मरुतः,३ अश्विनौ, द्यौष्पिता | पथ्याबृहती, २ संस्तारपङ्क्तिः, ३ त्रिपदा विराड्गायत्री | त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ | पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.4.1

१-३ अथर्वा | १ त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः, २ अंशः, भगः, वरुणः, मित्रः, अर्यमा, अदितिः, मरुतः,३ अश्विनौ, द्यौष्पिता | पथ्याबृहती, २ संस्तारपङ्क्तिः, ३ त्रिपदा विराड्गायत्री | त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ | पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ||

6.4.2

अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑ | अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ||

6.4.3

धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन् | द्यौ॒३ष्पित॑र्या॒वय॑ दु॒च्छुना॒ या ||