Atharvaveda 6.22

भैषज्यम्।

6.22.1

१-३ शन्तातिः | १ आदित्यरश्मिः, २-३ मरुतः | त्रिष्टुप्, २ चतुष्पदा भुरिग्जगती | कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत् प॑तन्ति | त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वीं व्यूऽदुः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.22.1

१-३ शन्तातिः | १ आदित्यरश्मिः, २-३ मरुतः | त्रिष्टुप्, २ चतुष्पदा भुरिग्जगती | कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत् प॑तन्ति | त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वीं व्यूऽदुः ||

6.22.2

पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः | ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ||

6.22.3

उ॒द॒प्रुतो॑ म॒रुत॒स्तां इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑ | एजा॑ति॒ ग्लहा॑ क॒न्येऽव तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या ||