6.123.1
१-५ भृगुः | विश्वे देवाः | त्रिष्टुप्, ३ द्विपदा साम्म्यनुष्टुप्, ४ एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टु | ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः | अ॒न्वा॒ग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योऽमन् ||
सौमनसम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.123.1
१-५ भृगुः | विश्वे देवाः | त्रिष्टुप्, ३ द्विपदा साम्म्यनुष्टुप्, ४ एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टु | ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः | अ॒न्वा॒ग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योऽमन् ||
6.123.2
जा॒नी॒त स्मै॑नं पर॒मे व्योऽम॒न् देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑ | अ॒न्वा॒ग॒न्ता यज॑मानः स्व॒स्तीऽष्टापू॒र्तं स्म॑ कृणुता॒विर॑स्मै ||
6.123.3
देवाः॒ पित॑रः॒ पित॑रो॒ देवाः॑ | यो अस्मि॒ सो अ॑स्मि ||
6.123.4
स प॑चामि॒ स द॑दामि॒ | स य॑जे॒ स द॒त्तान्मा यू॑षम् ||
6.123.5
नाके॑ राज॑न् प्रति॑ तिष्ठ॒ तत्रै॒तत् प्रति॑ तिष्ठतु | वि॒द्धि पू॒र्तस्य॑ नो राज॒न्त्स दे॑व सु॒मना॑ भव ||