6.115.1
१-३ ब्रह्मा | विश्वे देवाः | अनुष्टुप् | यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम् | यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ||
पापमोचनम्।
6.115.1
१-३ ब्रह्मा | विश्वे देवाः | अनुष्टुप् | यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम् | यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
6.115.1
१-३ ब्रह्मा | विश्वे देवाः | अनुष्टुप् | यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम् | यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ||
6.115.2
यदि॒ जाग्र॒द् यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम् | भू॒तं मा॒ तस्मा॒द् भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ||
6.115.3
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव | पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ||