5.24.1
१-१७ अथर्वा | ब्रह्मकर्मात्मा, १ सविता, २ अग्निः, ३ द्यावापृथिवी, ४ वरुणः, ५ मित्रावरुणौ, ६ मरुतः, ७ सोमः, ८ वायुः, ९ सूर्यः, १० चन्द्रमाः, ११ इन्द्रः, १२ मरुतां पिता, १३ मृत्युः, १४ यमः, १५ पितरः, १६ तताः, १७ ततामहाः | अतिशक्वरी, १-१०, १२-१४ चतुष्पदातिशक्वरी, ११ शक्वरी, १५-१६ त्रिपदा भुरिग्जगती, १७ त्रिपदा विराट् शक्वरी | स॒वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु | अ॒स्मिन् ब्रह्म॑ण्य॒स्मिन् कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ||