Atharvaveda 5.19

ब्रह्मगवि

5.19.1

१-१५ मयोभूः | ब्रह्मगवि | अनुष्टुप्, २ विराट्-पुरस्ताद्बृबती, ७ उपरिष्टाद्बृहती | अ॒ति॒मा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन् | भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

5.19.1

१-१५ मयोभूः | ब्रह्मगवि | अनुष्टुप्, २ विराट्-पुरस्ताद्बृबती, ७ उपरिष्टाद्बृहती | अ॒ति॒मा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन् | भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ||

5.19.2

ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन् ब्राह्म॒णं जनाः॑ | पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ||

5.19.3

ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न् ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे | अ॒स्नस्ते मध्ये॑ कु॒ल्यायाः॒ केशा॒न् खाद॑न्त आसते ||

5.19.4

ब्र॒ह्म॒ग॒वी प॒च्यमा॑ना॒ याव॒त् साभि वि॒जङ्ग॑हे | तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ||

5.19.5

क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते | क्षी॒रं यद॑स्याः पी॒यते॒ तद् वै पि॒तृषु॒ किल्बि॑षम् ||

5.19.6

उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति | परा॑ तत् सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ||

5.19.7

अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः | द्व्याऽस्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ||

5.19.8

तद् वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम् | ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद् रा॒ष्ट्रं ह॑न्ति दु॒च्छुना॑ ||

5.19.9

तं वृ॒क्षा अप॑ सेधन्ति छा॒यां नो॒ मोप॑गा॒ इति॑ | यो ब्रा॑ह्म॒णस्य॒ सद् धन॑म॒भि ना॑रद॒ मन्य॑ते ||

5.19.10

वि॒षमे॒तद् दे॒वकृ॑तं॒ राजा॒ वरु॑णोऽब्रवीत् | न ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा रा॒ष्ट्रे जा॑गार॒ कश्च॒न ||

5.19.11

नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्यऽधूनुत | प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ||

5.19.12

यां मृ॒ताया॑नुब॒ध्नन्ति॑ कू॒द्यंऽ पद॒योप॑नीम् | तद् वै ब्र॑ह्मज्य ते दे॒वा उ॑प॒स्तर॑णमब्रुवन् ||

5.19.13

अश्रू॑णि॒ कृप॑मानस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः | तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ||

5.19.14

येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनोन्दते॑ | तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ||

5.19.15

न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति | नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ||