Atharvaveda 5.13

सर्पविषनाशनम्।

5.13.1

१-११ गरुत्मान् | तक्षकः | जगती, २ आस्तारपङ्क्तिः, ४,७,८ अनुष्टप्, ५ त्रिष्टुप्, ६ पथ्यापङ्क्तिः. ९ भुरिक्, १०,११ निचृद्गायत्री | द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम् | खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न् नि ज॑जास ते वि॒षम् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

5.13.1

१-११ गरुत्मान् | तक्षकः | जगती, २ आस्तारपङ्क्तिः, ४,७,८ अनुष्टप्, ५ त्रिष्टुप्, ६ पथ्यापङ्क्तिः. ९ भुरिक्, १०,११ निचृद्गायत्री | द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम् | खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न् नि ज॑जास ते वि॒षम् ||

5.13.2

यत् ते॒ अपो॑दकं वि॒षं तत् त॑ ए॒तास्व॑ग्रभम् | गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ||

5.13.3

वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते | अ॒हं तम॑स्य॒ नृभि॑रग्रभं॒ रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ||

5.13.4

चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम् | अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्येऽतु त्वा वि॒षम् ||

5.13.5

कैरा॑त पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः | मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ||

5.13.6

अ॒सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च | सा॒त्रा॒सा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ||

5.13.7

आलि॑गी च॒ विलि॑गी च पि॒ता च॑ माता॒ च॑ | वि॒द्म वः॑ स॒र्वतो॒ ब॑न्ध्वर॑साः॒ किं क॑रिष्यथ ||

5.13.8

उ॒रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या | प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ||

5.13.9

क॒र्णा श्वा॒वित् तद॑ब्रवीद् गि॒रेर॑वचरन्ति॒का | याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒ष॑म् ||

5.13.10

ता॒बुवं॒ न ता॒बुवं॒ न घेत् त्वम॑सि ता॒बुव॑म् | ता॒बुवे॑नार॒सं वि॒षम् ||

5.13.11

त॒स्तुवं॒ न त॒स्तुवं॒ न घेत् त्वम॑सि त॒स्तुव॑म् | त॒स्तुवे॑नार॒सं वि॒षम् ||