4.28.1
१-७ मृगारोऽथर्वा वा | भवाशर्वौ रुद्रो वा | त्रिष्टुप्, १ अतिजागतगर्भा भुरिक् | भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते | याव॒स्ये॑शा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
पापमोचनम् ।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.28.1
१-७ मृगारोऽथर्वा वा | भवाशर्वौ रुद्रो वा | त्रिष्टुप्, १ अतिजागतगर्भा भुरिक् | भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते | याव॒स्ये॑शा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
4.28.2
ययो॑रभ्यभ्व॒ उ॒त यद् दू॒रे चि॒द् यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ | याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
4.28.3
स॒ह॒स्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ | याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
4.28.4
यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेद॑स्रा॑ष्ट्रमभि॒भां जने॑षु | याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
4.28.5
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु | याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
4.28.6
यः कृ॑त्या॒कृन्मू॑ल॒कृद् या॑तु॒धानो॒ नि तस्मि॑न् धत्तं॒ वज्र॑मु॒ग्रौ | याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ||
4.28.7
अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी | स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो॑ जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ||