Atharvaveda 4.23

पाप-मोचनम्।

4.23.1

१-७ मृगारः | प्रचेता अग्निः | त्रिषटुप्, ३ पुरस्ताज्ज्योतिष्मती, ४ अनुष्टुप्, ६ प्रस्तारपङ्क्तिः | अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑ | विशो॑ विशः प्रविशि॒वांस॑मीमहे॒ स नो मुञ्च॒त्वंह॑सः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

4.23.1

१-७ मृगारः | प्रचेता अग्निः | त्रिषटुप्, ३ पुरस्ताज्ज्योतिष्मती, ४ अनुष्टुप्, ६ प्रस्तारपङ्क्तिः | अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑ | विशो॑ विशः प्रविशि॒वांस॑मीमहे॒ स नो मुञ्च॒त्वंह॑सः ||

4.23.2

यथा॑ ह॒व्यं वह॑सि जातवेदो॒ यथा॑ य॒ज्ञं क॒ल्पय॑सि प्रजा॒नन् | ए॒वा दे॒वेभ्यः॑ सुम॒तिं न॒ आ व॑ह॒ स नो॑ मुञ्च॒त्वंह॑सः ||

4.23.3

याम॑न्याम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑न्कर्म॒न्नाभ॑गम् | अ॒ग्निमी॑डे र॒क्षो॒हणं॑ यज्ञ॒वॄधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒त्वंह॑सः ||

4.23.4

सुजा॑तं जा॒तवे॑दसम॒ग्निं वै॑श्वान॒रं वि॒भुम् | ह॒व्य॒वाहं॑ हवामहे॒ स नो॑ मुञ्च॒त्वंह॑सः ||

4.23.5

येन॒ ऋष॑यो ब॒लमद्यो॑तयन् यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः | येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒त्वंह॑सः ||

4.23.6

येन॑ दे॒वा अ॒मृत॑म॒न्ववि॑न्द॒न् येनौष॑धी॒र्मधु॑मती॒रकृण्वन् | येन॑ दे॒वाः स्व॑१राभ॑र॒न्त्स नो॑ मुञ्च॒त्वंह॑सः ||

4.23.7

यस्ये॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यंऽ च॒ केव॑लम् | स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ||