4.18.1
१-८ शुक्रः | अपामार्गो वनस्पतिः | अनुष्टुप्, ६ बृहतीगर्भा | स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒मावती॑ | कृ॒णोमि॑ स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ||
अपामार्गः।
4.18.1
१-८ शुक्रः | अपामार्गो वनस्पतिः | अनुष्टुप्, ६ बृहतीगर्भा | स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒मावती॑ | कृ॒णोमि॑ स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.18.1
१-८ शुक्रः | अपामार्गो वनस्पतिः | अनुष्टुप्, ६ बृहतीगर्भा | स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒मावती॑ | कृ॒णोमि॑ स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ||
4.18.2
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम् | व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ||
4.18.3
अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति | अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः फट् क॑रिक्रति ||
4.18.4
सह॑स्रधाम॒न् विशि॑खा॒न् विग्री॑वां छायया॒ त्वम् | प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ||
4.18.5
अ॒नया॒हमोष॑ध्या सर्वाः॑ कृ॒त्या अ॑दूदुषम् | यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ||
4.18.6
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म् | च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑नं॒ तु सः ||
4.18.7
अ॒पा॒मा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः | अपाह॑ यातुधा॒नीरप॒ सर्वा॒ अरा॒य्यः ||
4.18.8
अ॒प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः | अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॒ मृज्महे ||