Atharvaveda 4.16

सत्यानृतसमीक्षकः।

4.16.1

१-९ ब्रह्म | वरुणः, सत्यानृतान्वीक्षणम् | त्रिष्टुप्, १ अनुष्टुप्, ५ भुरिक्, ७ जगति, ८ त्रिपान्महाबृहती, विराण्नाम त्रिपाद्गायत्री | बृ॒हन्ने॑षामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति | य स्ता॑यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

4.16.1

१-९ ब्रह्म | वरुणः, सत्यानृतान्वीक्षणम् | त्रिष्टुप्, १ अनुष्टुप्, ५ भुरिक्, ७ जगति, ८ त्रिपान्महाबृहती, विराण्नाम त्रिपाद्गायत्री | बृ॒हन्ने॑षामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति | य स्ता॑यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ||

4.16.2

यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॒ वञ्च॑ति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म् | द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद् वे॑द॒ वरु॑णस्तृ॒तीयः॑ ||

4.16.3

उ॒तेयं भूमि॒र्वरु॑णस्य॒ राज्ञ॑ उ॒तासौ द्यौर्बृ॑ह॒ती दू॒रेअ॑न्ता | उ॒तो स॑मु॒द्रौ वरु॑णस्य कु॒क्षी उ॒तास्मिन्नल्प॑ उद॒के निली॑नः ||

4.16.4

उत यो द्याम॑ति॒सर्पा॑त् प॒रस्ता॒न्न स मु॑च्यातै॒ वरु॑णस्य॒ राज्ञः॑ | दि॒व स्पशः॒ प्र च॑रन्ती॒दम॑स्य सहस्रा॒क्षा अति॑ पश्यन्ति॒ भूमि॑म् ||

4.16.5

सर्वं॒ तद् राजा॒ वरु॑णो॒ वि च॑ष्टे॒ यद॑न्त॒रा रोद॑सी॒ यत् प॒रस्ता॑त् | संख्या॑ता अस्य नि॒मिषो॒ जना॑नाम॒क्षानि॑व श्व॒घ्नी नि मि॑नोति॒ तानि॑ ||

4.16.6

ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुश॑न्तः | छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ||

4.16.7

श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ् नृ॑चक्षः | आस्तां जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ||

4.16.8

यः स॑मा॒म्यो॒३वरु॑णो॒ यो व्या॒म्यो॒३यः सं॑दे॒श्यो॒३वरु॑णो॒ यो वि॑दे॒श्यः | यो दै॒वो वरु॑णो॒ यश्च॒ मानु॑षः ||

4.16.9

तैस्त्वा॒ सर्वै॑र॒भि ष्या॑मि॒ पाशै॑रसावामुष्यायणामुष्याः पुत्र | तानु॑ ते॒ सर्वा॑ननु॒संदि॑शामि ||