4.14.1
१-९ भृगुः | आज्यं, अग्निः | त्रिष्टुप्, २, ४ अनुष्टुप्, ३ प्रस्तारपङ्क्तिः, ७, ९ जगति, ८ पञ्चपदातिशक्वरी | अ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒त् सो अ॑पश्यज्जनि॒तार॒मग्रे॑ | तेन॑ दे॒वा दे॒वता॒मग्रा॑ आय॒न् तेन॒ रोहा॑न् रुरुहु॒र्मेध्या॑सः ||
स्वर्ज्योतिः प्राप्तिः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.14.1
१-९ भृगुः | आज्यं, अग्निः | त्रिष्टुप्, २, ४ अनुष्टुप्, ३ प्रस्तारपङ्क्तिः, ७, ९ जगति, ८ पञ्चपदातिशक्वरी | अ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒त् सो अ॑पश्यज्जनि॒तार॒मग्रे॑ | तेन॑ दे॒वा दे॒वता॒मग्रा॑ आय॒न् तेन॒ रोहा॑न् रुरुहु॒र्मेध्या॑सः ||
4.14.2
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न् हस्ते॑षु॒ बिभ्र॑तः | दि॒वस्पृ॒ष्ठं स्वऽर्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ||
4.14.3
पृ॒ष्ठात् पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द् दिव॒मारु॑हम् | दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॑१र्ज्योति॑रगाम॒हम् ||
4.14.4
स्व॑१र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी | य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे ||
4.14.5
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षानाम् | इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्वऽर्यन्तु॒ यज॑मानाः स्व॒स्ति ||
4.14.6
अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्नं प॑य॒सं बृ॒हन्त॑म् | तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्वऽरा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ||
4.14.7
पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्द॑र्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम् | प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ||
4.14.8
प्र॒तीच्यां॑ दि॒शि भ॒सद॒मस्य धेह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम् | ऊ॒र्ध्वायां॑ दि॒श्य॑१जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्यऽम॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ||
4.14.9
शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम् | स उत् ति॑ष्ठे॒तो अ॒भि नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ||