3.29.1
१-८ उद्दालकः | शितिपाद् अविः, ७ कामः, ८ भूमिः | अनुष्टुप्, १, ३ पथ्यापङ्क्तिः, ७ त्र्यवसाना षट्पदा उपरिष्टा द्दैवी बृहती ककुम्मतीगर्भा विराड् जगती, ८ उपरिष्टाद् बृहती | यद् राजा॑नो वि॒भज॑न्त इष्टापू॒र्तस्य॑ षोड॒शं य॒मस्या॒मी स॑भा॒सदः॑ | अवि॒स्तस्मा॒त् प्र मु॑ञ्चति द॒त्तः शि॑ति॒पात् स्व॒धा ||