Atharvaveda 3.17

कृषिः।

3.17.1

१-९ विश्वामित्रः | सीता | अनुष्टुप्, १आर्षी गायत्री, २, ५, ९ त्रिष्टुप्, ३ पथ्यापङ्क्तिः, ७ विराट् पुर उष्णिक्, ८ निचृत् | सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् | धीरा॑ दे॒वेषु॑ सुम्न॒यौ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

3.17.1

१-९ विश्वामित्रः | सीता | अनुष्टुप्, १आर्षी गायत्री, २, ५, ९ त्रिष्टुप्, ३ पथ्यापङ्क्तिः, ७ विराट् पुर उष्णिक्, ८ निचृत् | सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् | धीरा॑ दे॒वेषु॑ सुम्न॒यौ ||

3.17.2

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म् | वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत् सृ॒ण्यः प॒क्वमा य॑वन् ||

3.17.3

लाङ्ग॑लं पवी॒रव॑त् सु॒शीमं॑ सोम॒सत्स॑रु | उदिद् व॑पतु॒ गामविं॑ प्र॒स्थाव॑द् रथ॒वाह॑नं॒ पीब॑रीं च प्रफ॒र्व्यऽम् ||

3.17.4

इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु | सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ||

3.17.5

शु॒नं सु॑फा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान् | शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै ||

3.17.6

शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् | शु॒नं व॑र॒त्रा ब॑ध्य॒न्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ||

3.17.7

शुना॑सीरे॒ह स्म॑ मे जुषेथाम् | यद् दि॒वि च॒क्रथुः॒ पय॒स्तेने॒मामुप॑ सिञ्चतम् ||

3.17.8

सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव | यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ||

3.17.9

घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑ | सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त् पिन्व॑माना ||