20.128.1
यः स॒भेयो॑ विद॒थ्यः सु॒त्वा य॒ज्वाथ॒ पूरु॑षः | सूर्यं॒ चामू॑ रि॒शादस॒स्तद् दे॒वाः प्राग॑कल्पयन् ||
खिलानि ।
20.128.1
यः स॒भेयो॑ विद॒थ्यः सु॒त्वा य॒ज्वाथ॒ पूरु॑षः | सूर्यं॒ चामू॑ रि॒शादस॒स्तद् दे॒वाः प्राग॑कल्पयन् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
20.128.1
यः स॒भेयो॑ विद॒थ्यः सु॒त्वा य॒ज्वाथ॒ पूरु॑षः | सूर्यं॒ चामू॑ रि॒शादस॒स्तद् दे॒वाः प्राग॑कल्पयन् ||
20.128.2
यो जा॒म्या अप्र॑थय॒स्तद् यत् सखा॑यं॒ दुधू॑र्षति | ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ||
20.128.3
यद् भ॒द्रस्य॒ पुरु॑षस्य पु॒त्रो भ॑वति दाधृ॒षिः | तद् वि॒प्रो अब्र॑वीदु॒ तद् ग॑न्ध॒र्वः काम्यं॒ वचः॑ ||
20.128.4
यश्च॑ प॒णि रघु॑जि॒ष्ठ्यो यश्च॑ दे॒वां अदा॑शुरिः | धीरा॑णां॒ शश्व॑ताम॒हं तद॑पा॒गिति॑ शुश्रुम ||
20.128.5
ये च॑ दे॒वा अय॑ज॒न्ताथो॒ ये च॑ पराद॒दिः | सूर्यो॒ दिव॑मिव ग॒त्वाय॑ म॒घवा॑ नो॒ वि र॑प्शते ||
20.128.6
योना॒क्ताक्षो॑ अनभ्य॒क्तो अम॑णि॒वो अहि॑र॒ण्यवः॑ | अब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ||
20.128.7
य आ॒क्ताक्षः॑ सुभ्य॒क्तः सुम॑णिः॒ सुहि॑र॒ण्यवः॑ | सुब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ||
20.128.8
अप्र॑पा॒णा च॑ वेश॒न्ता रे॒वां अप्रति॑दिश्ययः | अय॑भ्या क॒न्या कल्या॒णी तो॒ता कल्पे॑षु सं॒मिता॑ ||
20.128.9
सुप्र॑पा॒णा च॑ वेश॒न्ता रे॒वान्त्सुप्रति॑दिश्ययः | सुय॑भ्या क॒न्या कल्या॒णी तो॒ता कल्पे॑षु सं॒मिता॑ ||
20.128.10
परि॑वृ॒क्ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः | अना॑शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ||
20.128.11
वा॒वा॒ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः | श्वा॒शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ||
20.128.12
यदि॑न्द्रा॒दो दा॑शरा॒ज्ञे मानु॑षं॒ वि गा॑हथाः | विरू॑पः॒ सर्व॑स्मा आसीत् सह य॒क्षाय॒ कल्प॑ते ||
20.128.13
त्वं वृ॑षा॒क्षुं म॑घव॒न्नम्रं॑ म॒र्याकरो॒ रविः॑ | त्वं रौ॑हि॒णं व्यास्यो॒ वि वृ॒त्रस्याभि॑न॒च्छिरः॑ ||
20.128.14
यः पर्व॑ता॒न् व्य॑दधा॒द् यो अ॒पो व्य॑गाहथाः | इन्द्रो॒ यो वृ॑त्र॒हान्म॒हं तस्मा॑दिन्द्र॒ नमो॑ऽस्तु ते ||
20.128.15
पृ॒ष्ठं धाव॑न्तं ह॒र्योरौच्चैः॑ श्रव॒सम॑ब्रुवन् | स्व॒स्त्यश्व॒ जैत्रा॒येन्द्र॒मा व॑ह सु॒स्र॑म् ||
20.128.16
ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ युञ्जन्ति॒ दक्षि॑णम् | पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ||