Atharvaveda 2.6

सपत्नहाऽग्निः।

2.6.1

१-५ शौनकः(सम्पत्कामः) अग्निः | त्रिष्टुप्, ४ चतुष्पदार्षी पङ्क्तिः, ५ विराट् प्रस्तारपङ्क्तिः | समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या | सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

2.6.1

१-५ शौनकः(सम्पत्कामः) अग्निः | त्रिष्टुप्, ४ चतुष्पदार्षी पङ्क्तिः, ५ विराट् प्रस्तारपङ्क्तिः | समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या | सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ||

2.6.2

सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय | मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ||

2.6.3

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः | स॒प॒त्न॒हाग्ने॑ अभिमाति॒जिद् भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ||

2.6.4

क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व | स॒जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ||