2.33.1
१-७ ब्रह्मा | यक्ष्मविबर्हणं, चन्द्रमाः, आयुष्यम् | अनुष्टुप्, ३ ककुम्मती, ४ चतुष्पदा भुरिगुष्णिक्, ५ उपरिष्टाद्विराड्बृहती, ६ उष्णिग्गर्भा निचृदनुष्टुप्, ७ पथ्यापङ्क्तिः | अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां छुबु॑का॒दधि॑ | यक्ष्मं॑ शीर्ष॒ण्यं ऽ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ||