Atharvaveda 2.31

क्रिमिजम्भनम्।

2.31.1

१-५ कण्वः | मही, चन्द्रमाः | अनुष्टुप्, २, ४ उपरिष्टाद्विराड्बृहती, ३, ५ आर्षी त्रिष्टुप् | इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी | तया॑ पिनष्मि॒ सं क्रिमी॑न् दृ॒षदा॒ खल्वाँ॑ इव ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

2.31.1

१-५ कण्वः | मही, चन्द्रमाः | अनुष्टुप्, २, ४ उपरिष्टाद्विराड्बृहती, ३, ५ आर्षी त्रिष्टुप् | इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी | तया॑ पिनष्मि॒ सं क्रिमी॑न् दृ॒षदा॒ खल्वाँ॑ इव ||

2.31.2

दृ॒ष्टम॒दृष्ट॑मतृह॒मथो॑ कु॒रूरु॑मतृहम् | अ॒ल्गण्डू॒न्त्सर्वा॑न् छ॒लुना॒न् क्रिमी॒न् वच॑सा जम्भयामसि ||

2.31.3

अ॒ल्गण्डू॑न् हन्मि मह॒ता व॒धेन॑ दू॒ना अदू॑ना अर॒सा अ॑भूवन् | शि॒ष्टानशि॑ष्टा॒न् नि ति॑रामि वा॒चा यथा॒ क्रिमी॑णां॒ नकि॑रु॒च्छिषा॑तै ||

2.31.4

अन्वा॑न्त्र्यं शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न् | अ॒व॒स्क॒वं व्य॑ध्व॒रं क्रिमी॒न् वच॑सा जम्भयामसि ||

2.31.5

ये क्रिम॑यः॒ पर्व॑तेशु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः | ये अ॒स्माकं॑ त॒न्वऽमाविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ||