2.29.1
१-७ अथर्वा | १ अग्निः, सूर्यः, बृहस्पतिः, २ जातवेदाः, सविता, ३ इन्द्रः, ४-५ द्यावापृथिवी, विश्वे देवाः, मरुतः, आपः, ६ अश्विनौ, ७ इन्द्रः | त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः | पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॒३ बले॑ | आ॒यु॒ष्यऽम॒स्मा अ॒ग्निः सूर्यो वर्च॒ आ धा॒द् बृह॒स्पतिः॑ ||