Atharvaveda 2.23

शत्रुनाशनम्।

2.23.1

१-५ अथर्वा | आपः | (एकावसानम्) १-४ समविषमा, ५ स्वराड्विषमा | आपो॒ यद् व॒स्तप॒स्तेन॒ तं प्रति॑ तपत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

2.23.1

१-५ अथर्वा | आपः | (एकावसानम्) १-४ समविषमा, ५ स्वराड्विषमा | आपो॒ यद् व॒स्तप॒स्तेन॒ तं प्रति॑ तपत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||

2.23.2

आपो॒ यद् वो॒ हर॒स्तेन॒ तं प्रति॑ हरत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||

2.23.3

आपो॒ यद् वो॒ऽर्चिस्तेन॒ तं प्रत्य॑र्चत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||

2.23.4

आपो॒ यद् वः॑ शो॒चिस्तेन॒ तं प्रति॑ शोचत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||

2.23.5

आपो॒ यद् व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ||