2.12.1
१-८ भरद्वाजः | १ द्यावापृथिवी, अन्तरिक्षम्, २ देवाः, ३ इन्द्रः, ४ आदित्या वसवोऽङ्गिरसः पितरः, ५ सोम्यासः पितरः, ६ मरुतः, ७ यमसादनम्, ब्रह्म, ८ अग्निः | त्रिष्टुप्, २ जगती, ७-८ अनुष्टुप् | द्यावा॑पृथिवी उ॒र्व॑१न्त॑रिक्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः | उ॒तान्तरिक्ष॑मु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ||