Atharvaveda 19.8

नक्षत्राणी।

19.8.1

१-७ गार्ग्यः | नक्षत्राणी, …. ब्रह्मणस्पतिः | त्रिष्टुप्, १ विराड् जगती | यानि॒ नक्ष॑त्राणि दि॒व्य॑१न्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु | प्रक॑ल्पयंश्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.8.1

१-७ गार्ग्यः | नक्षत्राणी, …. ब्रह्मणस्पतिः | त्रिष्टुप्, १ विराड् जगती | यानि॒ नक्ष॑त्राणि दि॒व्य॑१न्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु | प्रक॑ल्पयंश्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ||

19.8.2

अ॒ष्टा॒विं॒शानि॑ शि॒वानि॑ श॒ग्मानि॑ स॒ह योगं॑ भजन्तु मे | योगं॒ प्र प॑द्ये॒ क्षेमं॑ च॒ क्षेमं॒ प्र प॑द्ये॒ योगं॑ च॒ नमो॑ऽहोरा॒त्राभ्या॑मस्तु ||

19.8.3

स्वस्ति॑तं मे सुप्रा॒तः सु॑सा॒यं सु॑दि॒वं सु॑मृ॒गं सु॑श॒कुनं॑ मे अस्तु | सु॒हव॑मग्ने स्व॒स्त्य॑१मर्त्यं॑ ग॒त्वा पुन॒राया॑भि॒नन्द॑न् ||

19.8.4

अ॒नु॒ह॒वं प॑रिह॒वं प॑रिवा॒दं प॑रिक्ष॒वम् | सर्वै॑र्मे रिक्तकु॒म्भान् परा॒ तान् स॑वितः सुव ||

19.8.5

अ॒प॒पा॒पं प॑रिक्ष॒वं पुण्यं॑ भक्षी॒महि॒ क्षव॑म् | शि॒वा ते॑ पाप॒ नासि॑कां॒ पुण्य॑गश्चा॒भि मे॑हताम् ||

19.8.6

इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते | स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ||

19.8.7

स्व॒स्ति नो॑ अ॒स्त्वभ॑यं नो अस्तु॒ नमो॑ऽहोर॒त्राभ्या॑मस्तु ||