Atharvaveda 19.6

जगद्बीज पुरुषः।

19.6.1

१-१६ नारायणः | पुरुषः | अनुष्टुप् | स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् | स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद् दशाङ्गु॒लम् ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.6.1

१-१६ नारायणः | पुरुषः | अनुष्टुप् | स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् | स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद् दशाङ्गु॒लम् ||

19.6.2

त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त् पाद॑स्ये॒हाभ॑व॒त् पुनः॑ | तथा॒ व्यऽक्राम॒द् विष्व॑ङशनानश॒ने अनु॑ ||

19.6.3

ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्यायां॑श्च॒ पूरु॑षः | पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्यृ॒तं॑ दि॒वि ||

19.6.4

पुरु॑ष ए॒वेदं सर्वं॒ यद् भू॒तं यच्च॑ भा॒व्यम् | उ॒तामृ॑त॒त्वस्ये॑श्व॒रो यद॒न्येनाभ॑वत् स॒ह ||

19.6.5

यत् पुरु॑षं॒ व्यद॑धुः कति॒धा व्यऽकल्पयन् | मुखं॒ किम॑स्य॒ किं बा॒हू किमू॒रू पादा॑ उच्येते ||

19.6.6

ब्रा॒ह्म॒णोऽस्य॒ मुख॑मासीद् बा॒हू रा॑ज॒न्योऽभवत् | मध्यं॒ तद॑स्य॒ यद् वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ||

19.6.7

चन्द्र॑मा म॑नसो जात॑श्च॑क्षोः सू॑र्यो अजायत | मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद् वा॒युर॑जायत ||

19.6.8

नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत | प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा॑ लो॒कां अ॑कल्पयन् ||

19.6.9

वि॒राडग्रे॒ सम॑भवद् वि॒राजो॒ अधि॒ पूरु॑षः | स जा॒तो अत्य॑रिच्यत प॒श्चाद् भूमि॒मथो॑ पु॒रः ||

19.6.10

यत् पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत | व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||

19.6.11

तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒शः | तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये ||

19.6.12

तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः | गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ||

19.6.13

तस्मा॑द् य॒ज्ञात् स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे | छन्दो॑ ह जज्ञिरे॒ तस्मा॒द् यजु॒स्तस्मा॑दजायत ||

19.6.14

तस्मा॑द् य॒ज्ञात् स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यऽम् | प॒शूंस्तांश्च॑क्रे वाय॒व्याऽनार॒ण्या ग्रा॒म्याश्च॒ ये ||

19.6.15

स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः | दे॒वा यद् य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न् पुरु॑षं प॒शुम् ||

19.6.16

मू॒र्ध्नो दे॒वस्य॑ बृह॒तो अं॒शवः॑ स॒प्त स॑प्त॒तीः | राज्ञः॒ सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ||