19.57.1
१-५ यमः | दुःष्वप्ननाशनम् | १ अनुष्टुप्, २-३ त्रिष्टुप् (त्र्यवसाना), ४ षट्पदा उष्णिग्बृहतीगर्भा विराट् शक्वरी, ५ त्र्यवसाना पञ्चपदा परशाक्वरातिजगती | यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति | ए॒वा दु॒ष्वप्न्यं॒ सर्व॒मप्रि॑ये॒ सं न॑यामसि ||
दुःष्वप्ननाशनम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.57.1
१-५ यमः | दुःष्वप्ननाशनम् | १ अनुष्टुप्, २-३ त्रिष्टुप् (त्र्यवसाना), ४ षट्पदा उष्णिग्बृहतीगर्भा विराट् शक्वरी, ५ त्र्यवसाना पञ्चपदा परशाक्वरातिजगती | यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति | ए॒वा दु॒ष्वप्न्यं॒ सर्व॒मप्रि॑ये॒ सं न॑यामसि ||
19.57.2
सं राजा॑नो अगुः॒ समृ॒णाम्य॑गुः॒ सं कु॒ष्ठा अ॑गुः॒ सं क॒ला अ॑गुः | सम॒स्मासु॒ यद् दु॒ष्वप्न्यं॒ निर्द्वि॑ष॒ते दु॒ष्वप्न्यं॑ सुवाम ||
19.57.3
देवा॑नां पत्नीनां गर्भ॒ यम॑स्य कर॒ यो भ॒द्रः स्व॑प्न | स मम॒ यः पा॒पस्तद् द्वि॑ष॒ते प्र हि॑ण्मः | मा तृ॒ष्टाना॑मसि कृष्णशकु॒नेर्मुख॑म् ||
19.57.4
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स त्वं स्व॒प्नाश्व॑ इव का॒यमश्व॑ इव नीना॒हम् | अ॒ना॒स्मा॒कं दे॑वपी॒युं पिया॑रुं वप॒ यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद् गोषु॒ यच्च॑ नो गृ॒हे ||
19.57.5
अ॒ना॒स्मा॒कस्तद् दे॑वपी॒युः पिया॑रुर्नि॒ष्कमि॑व॒ प्रति॑ मुञ्चताम् | नवा॑र॒त्नीनप॑मया अ॒स्माकं॒ ततः॒ परि॑ | दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते निर्द॑यामसि ||