19.55.1
१-६ भृगुः | अग्निः | त्रिष्टुप्, २ आस्तारपङ्क्तिः, ५ त्र्यवसाना पञ्चपदा पुरस्ताज्ज्योतिष्मती | रात्रिं॑रात्रि॒मप्र॑यातं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॒स्मै | रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ||
रायस्पोषप्राप्तिः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.55.1
१-६ भृगुः | अग्निः | त्रिष्टुप्, २ आस्तारपङ्क्तिः, ५ त्र्यवसाना पञ्चपदा पुरस्ताज्ज्योतिष्मती | रात्रिं॑रात्रि॒मप्र॑यातं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॒स्मै | रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ||
19.55.2
या ते॒ वसो॒र्वात॒ इषुः॒ सा त॑ ए॒षा तया॑ नो मृड | रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ||
19.55.3
सा॒यंसा॑यं गृ॒हप॑तिर्नो अ॒ग्निः प्रा॒तःप्रा॑तः सौमन॒सस्य॑ दा॒ता | वसो॑र्वसोर्वसु॒दान॑ एधि व॒यं त्वेन्धा॑नास्त॒न्वं पुषेम ||
19.55.4
प्रा॒तःप्रा॑तर्गृ॒हप॑तिर्नो अ॒ग्निः सा॒यंसा॑यं सौमन॒सस्य॑ दा॒ता | वसो॑र्वसोर्वसु॒दान॑ ए॒धीन्धा॑नास्त्वा श॒तंहि॑मा ऋधेम ||
19.55.5
अप॑श्चा द॒ग्धान्न॑स्य भूयासम् | अ॒न्ना॒दायान्न॑पतये रु॒द्राय॒ नमो॑ अ॒ग्नये॑ | स॒भ्यः स॒भां मे॑ पाहि॒ ये च॑ स॒भ्याः स॑भा॒सदः॑ ||
19.55.6
त्वामि॑न्द्रा पुरुहूत॒ विश्व॒मायु॒र्व्यश्नवन् | अह॑रहर्ब॒लिमित् ते॒ हर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑ग्ने ||