19.46.1
१-७ प्रजापतिः | अस्तृतमणिः | त्रिष्टुप्, १ पञ्चपदा ज्योतिष्मती त्रिष्टुप्, २ षट्-पदा भुरिक्शक्वरी, ३, ७ पञ्चरदा पथ्यापङ्क्तिः, ४, ५ अतिजगती ( ४ चतुष्पदा, पञ्चपदा), ६ पञ्चपदोष्णिग्गर्भा विराड् जगती पङ्क्तिः | प्र॒जाप॑तिष्ट्वा बध्नात् प्रथ॒ममस्तृ॑तं वी॒र्याय॒ कम् | तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृ॑तस्त्वा॒भि र॑क्षतु ||