19.44.1
१-१० भृगुः | आञ्जनम्, ८-९ वरुणः | अनुष्टुप्, ४ चतुष्पदा शङ्कुमत्युष्णिक्, ५ निचृद्विषमा त्रिपदा गायत्री | आयु॑षोऽसि प्र॒तर॑णं॒ विप्रं॑ भेष॒जमु॑च्यसे | तदा॑ञ्जन॒ त्वं शं॑ताते॒ शमापो॒ अभ॑यं कृतम् ||
भैषज्यम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.44.1
१-१० भृगुः | आञ्जनम्, ८-९ वरुणः | अनुष्टुप्, ४ चतुष्पदा शङ्कुमत्युष्णिक्, ५ निचृद्विषमा त्रिपदा गायत्री | आयु॑षोऽसि प्र॒तर॑णं॒ विप्रं॑ भेष॒जमु॑च्यसे | तदा॑ञ्जन॒ त्वं शं॑ताते॒ शमापो॒ अभ॑यं कृतम् ||
19.44.2
यो ह॑रि॒मा जा॒यान्यो॑ऽङ्गभे॒दो वि॒सल्प॑कः | सर्वं॑ ते॒ यक्ष्म॒मङ्गे॑भ्यो ब॒हिर्नि॑र्ह॒न्त्वाञ्ज॑नम् ||
19.44.3
आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम् | कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम् ||
19.44.4
प्राण॑ प्रा॒णं त्रा॑य॒स्वासो॒ अस॑वे मृड | निरृ॑ते॒ निरृ॑त्या नः॒ पाशे॑भ्यो मुञ्च ||
19.44.5
सिन्धो॒र्गर्भो॑ऽसि वि॒द्युतां॒ पुष्प॑म् | वातः॑ प्रा॒णः सूर्य॒श्चक्षु॑र्दि॒वस्पयः॑ ||
19.44.6
देवा॑ञ्जन॒ त्रैक॑कुदं॒ परि॑ मा पाहि वि॒श्वतः॑ | न त्वा॑ तर॒न्त्योष॑धयो॒ बाह्याः॑ पर्व॒तीया॑ उ॒त ||
19.44.7
वी॒३दं मध्य॒मवा॑सृपद् रक्षो॒हामी॑व॒चात॑नः | अमी॑वाः॒ सर्वा॑श्चा॒तय॑न् ना॒शय॑दभि॒भा इ॒तः ||
19.44.8
ब॒ह्वि॒३दं रा॑जन् वरु॒णानृ॑तमाह॒ पूरु॑षः | तस्मा॑त् सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ||
19.44.9
यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म | तस्मा॑त् सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ||
19.44.10
मि॒त्रश्च॑ त्वा॒ वरु॑णश्चानु॒प्रेय॑तुराञ्जन | तौ त्वा॑नु॒गत्य॑ दू॒रं भो॒गाय॒ पुन॒रोह॑तुः ||