19.4.1
१-४ अथर्वाङ्गिराः | अग्निः | त्रिष्टुप्, १ पञ्चपदा विराडतिजगती, २ जगती | यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः | तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाहा॑ ||
आकूतिः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.4.1
१-४ अथर्वाङ्गिराः | अग्निः | त्रिष्टुप्, १ पञ्चपदा विराडतिजगती, २ जगती | यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः | तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाहा॑ ||
19.4.2
आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु | यामा॒शामे॑मि॒ केव॑ली॒ सा मे॑ अस्तु॒ विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम् ||
19.4.3
आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि | अथो॒ भग॑स्य नो धे॒ह्यथो॑ नः सु॒हवो॑ भव ||
19.4.4
बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम् | यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान् ||