Atharvaveda 19.37

बलप्राप्तिः।

19.37.1

१-४ अथर्वा | | अग्निः | १ त्रिष्टुप्, २ आस्तारपङ्क्तिः, ३ त्रिपदा महाबृहती, ४ उष्णिक् | इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमाग॒न् भर्गो॒ यशः॒ सह॒ ओजो॒ वयो॒ बल॑म् | त्रय॑स्त्रिंश॒द् यानि॑ च वी॒र्याणि॒ तान्य॒ग्निः प्र द॑दातु मे ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.37.1

१-४ अथर्वा | | अग्निः | १ त्रिष्टुप्, २ आस्तारपङ्क्तिः, ३ त्रिपदा महाबृहती, ४ उष्णिक् | इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमाग॒न् भर्गो॒ यशः॒ सह॒ ओजो॒ वयो॒ बल॑म् | त्रय॑स्त्रिंश॒द् यानि॑ च वी॒र्याणि॒ तान्य॒ग्निः प्र द॑दातु मे ||

19.37.2

वर्च॒ आ धे॑हि मे त॒न्वां॒३ सह॒ ओजो॒ वयो॒ बल॑म् | इ॒न्द्रि॒याय॑ त्वा॒ कर्म॑णे वी॒र्याय॒ प्रति॑ गृह्णामि श॒तशा॑रदाय ||

19.37.3

ऊ॒र्जे त्वा॒ बला॑य॒ त्वौज॑से॒ सह॑से त्वा | अ॒भि॒भूया॑य त्वा रा॒ष्ट्रभृ॑त्याय॒ पर्यू॑हामि श॒तशा॑रदाय ||

19.37.4

ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑ | धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ||