19.35.1
१-५ अङ्गिराः | वनस्पतिः | अनुष्टुप्, ३ पथ्याबृहतीः, ४ शक्वरी निचृत् त्रिष्टुप् | इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒डं द॑दुः | दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम् ||
जङ्गिडः।
19.35.1
१-५ अङ्गिराः | वनस्पतिः | अनुष्टुप्, ३ पथ्याबृहतीः, ४ शक्वरी निचृत् त्रिष्टुप् | इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒डं द॑दुः | दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.35.1
१-५ अङ्गिराः | वनस्पतिः | अनुष्टुप्, ३ पथ्याबृहतीः, ४ शक्वरी निचृत् त्रिष्टुप् | इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒डं द॑दुः | दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम् ||
19.35.2
स नो॑ रक्षतु जङ्गि॒डो ध॑नपा॒लो धने॑व | दे॒वा यं च॒क्रुर्ब्रा॑ह्म॒णाः प॑रि॒पाण॑मराति॒हम् ||
19.35.3
दु॒र्हार्दः॒ संघो॑रं॒ चक्षुः॑ पाप॒कृत्वा॑न॒माग॑मम् | तांस्त्वं स॑हस्रचक्षो प्रतीबो॒धेन॑ नाशय परि॒पाणो॑ऽसि जङ्गि॒डः ||
19.35.4
परि॑ मा दि॒वः परि॑ मा पृथि॒व्याः पर्य॒न्तरि॑क्षा॒त् परि॑ मा वी॒रुद्भ्यः॑ | परि॑ मा भू॒तात् परि॑ मो॒त भव्या॑द् दि॒शोदि॑शो जङ्गि॒डः पा॑त्व॒स्मान् ||
19.35.5
य ऋ॒ष्णवो॑ दे॒वकृ॑ता॒ य उ॒तो व॑वृ॒तेऽन्यः | सर्वां॒स्तान् वि॒श्वभे॑षजोऽर॒सां ज॑ङ्गि॒डस्क॑रत् ||