19.30.1
१-५ ब्रह्मा | दर्भमणिः | अनुष्टुप् | यत् ते॑ दर्भ ज॒रामृ॑त्युः श॒तं वर्म॑सु॒ वर्म॑ ते | तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ जहि वी॒र्यैः ||
दर्भमणिः।
19.30.1
१-५ ब्रह्मा | दर्भमणिः | अनुष्टुप् | यत् ते॑ दर्भ ज॒रामृ॑त्युः श॒तं वर्म॑सु॒ वर्म॑ ते | तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ जहि वी॒र्यैः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.30.1
१-५ ब्रह्मा | दर्भमणिः | अनुष्टुप् | यत् ते॑ दर्भ ज॒रामृ॑त्युः श॒तं वर्म॑सु॒ वर्म॑ ते | तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ जहि वी॒र्यैः ||
19.30.2
श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या॑णि ते | तम॒स्मै विश्वे॒ त्वां दे॒वा ज॒रसे॒ भर्त॒वा अ॑दुः ||
19.30.3
त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म् | त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ||
19.30.4
स॒प॒त्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दः | म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ||
19.30.5
यत् स॑मु॒द्रो अ॒भ्यक्र॑न्दत् प॒र्जन्यो॑ वि॒द्युता॑ स॒ह | ततो॑ हिर॒ण्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ||