Atharvaveda 19.2

आपः।

19.2.1

१-५ सिन्धुद्वीपः | आपः | अनुष्टुप् | शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः | शं ते॑ सनि॒ष्यदा॒ आपः॒ शमु॑ ते सन्तु व॒र्ष्याः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.2.1

१-५ सिन्धुद्वीपः | आपः | अनुष्टुप् | शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः | शं ते॑ सनि॒ष्यदा॒ आपः॒ शमु॑ ते सन्तु व॒र्ष्याः ||

19.2.2

शं त॒ आपो॑ धन्व॒न्याः॒३ शं ते॑ सन्त्वनू॒प्याः | शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ||

19.2.3

अ॒न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑ | भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि ||

19.2.4

अ॒पामह॑ दि॒व्याऽनाम॒पां स्रो॑त॒स्याऽनाम् | अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑ ||

19.2.5

ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः | यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ||