19.15.1
१-६ अथर्वा | १-४ इन्द्रः, मन्त्रोक्ताः | त्रिष्टुप्, १ पथ्याबृहती, २, ५ जगती, ३ विराट् पथ्यापङ्क्तिः | यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि | मघ॑वंछ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ||
अभयम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.15.1
१-६ अथर्वा | १-४ इन्द्रः, मन्त्रोक्ताः | त्रिष्टुप्, १ पथ्याबृहती, २, ५ जगती, ३ विराट् पथ्यापङ्क्तिः | यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि | मघ॑वंछ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ||
19.15.2
इन्द्रं॑ व॒यम॑नूरा॒धं ह॑वाम॒हेऽनु॑ राध्यास्म द्वि॒पदा॒ चतु॑ष्पदा | मा नः॒ सेना॒ अर॑रुषी॒रुप॑ गु॒र्विषू॑चीरिन्द्र द्रु॒हो वि ना॑शय ||
19.15.3
इन्द्र॑स्त्रा॒तोत वृ॑त्र॒हा प॑र॒स्फानो॒ वरे॑ण्यः | स र॑क्षि॒ता च॑रम॒तः स म॑ध्य॒तः स प॒श्चात् स पु॒रस्ता॑न्नो अस्तु ||
19.15.4
उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑१र्यज्ज्योति॒रभ॑यं स्व॒स्ति | उ॒ग्रा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ क्षयेम शर॒णा बृ॒हन्ता॑ ||
19.15.5
अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे | अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ||
19.15.6
अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः | अभ॑यं॒ नक्त॒मभ॑यं॒ दिवा॑ नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ||